मुख्यमन्त्रिणा कोरोनासङ्क्रमितानाम्  उल्लेखनीय-न्यूनतां प्रति  सन्तोषः प्रकटितः

उत्तर प्रदेश सरकार के सूचना विभाग ने पहली बार संस्कृत में प्रेस विज्ञप्ति जारी की

उत्तर प्रदेश सरकार के सूचना विभाग ने पहली बार संस्कृत में प्रेस विज्ञप्ति जारी करना प्रारम्भ किया है.

भारत की सारी प्राचीन ज्ञान सम्पदा संस्कृत में है.

लेकिन दुर्भाग्य से भारत में संस्कृत प्रचलन से बाहर होती जा रही है.

इसके विपरीत चीन, अमेरिका और यूरोप में संस्कृत में बड़े पैमाने पर अध्ययन  करके फ़िज़िक्स, मैथ , केमिस्ट्री और चिकित्सा विज्ञान आदि के क्षेत्र में शोध किया जा रहा है.

भारत के मेडिकल कालेज से निकलने वालों को आयुर्वेद का ज्ञान नहीं.

 इंजीनियरिंग करने वालों को वास्तु शास्त्र का ज्ञान नहीं.

ये तो कुछ उदाहरण मात्र हैं, किस तरह हम अपने प्राचीन ज्ञान से कट गए हैं. संस्कृत के मंत्र केवल पूजा और कर्मकांड में काम आ रहे हैं वह भी बिना अर्थ जाने.

ऐसे में मुख्यमंत्री योगी आदित्यनाथ सरकार द्वारा संस्कृत में आम जन के लिए प्रेस विज्ञप्ति जारी करना स्वागत की बात है.

उम्मीद है देश विदेश के संस्कृत प्रेमी इसका लाभ उठाएँगे. 

  • सम्पादक 

=================

कोविडचिकित्सालयेषु जनशक्तिः  कदापि न्यूना न भवेत्।

लखनऊ: 26 सितम्बरमासः, 2020

उत्तरप्रदेशस्यमुख्यमन्त्रिणायोगिनाआदित्यनाथेनप्रदेशेगतसप्ताहेकोरोनाविषाणुनासङ्क्रमितानाम्उल्लेखनीय-न्यूनतांप्रतिसन्तोषंप्रकटयन्उक्तंयत्एषःसकारात्मकःसङ्केतःयत्सङक्रमणंनियन्त्रयितुंप्रदेशसर्वकारस्यरणनीतिःप्रभाविणिइतिसिध्यति।

मुख्यमन्त्रीअद्यस्वकीये  सर्वकारीयावासे आहूते एकस्मिन् उच्चस्तरीये उपवेशने अनलॉकव्यवस्थायाः समीक्षां कुर्वन्  सङ्क्रमणं  नियन्त्रयितुं च सहकारभावनया सह   प्रभावि-कार्यवाहीं कर्तुं उक्तवान् ।

प्रभाविसमन्वयेन  महामारीप्रकोपः नियन्त्रयितुं शक्यः ।

 

एषः एकः सकारात्मकः सङ्केतः , यत्सङ्क्रमणस्य नियन्त्रणे 

प्रदेशसर्वकारस्य रणनीतिः प्रभावोत्पादिका इति दर्शयति।

मुख्यमन्त्रिणा कथितं यद्वर्तमाने परीक्षणकार्यं सुचारुरूपेण क्रियते।

अग्रे अपि तथैव करिष्यते । एतत् सुनिश्चेतव्यं यत् कोविडचिकित्सालयेषु जनशक्तिः न्यूना न भवेत्।

ओषजन सुचारुतया उपलब्धः भवेत्। अग्रे अपेक्षानुरूपं व्यवस्था सुनिश्चिता  स्यात्।

स्वास्थ्यविभागस्य अपर-मुख्यसचिवः जिला चिकित्सालयेषु, सामुदायिकप्राथमिकस्वास्थ्यकेन्द्रेषु तथा च चिकित्साशिक्षाविभागस्य अपर-मुख्यसचिवः चिकित्सामहाविद्यालयेषु चिकित्सासंस्थानेषु च औषधीनाम् आवश्यकचिकित्सासामग्रीणां च  उपलब्धतां सुनिश्चितां कुर्यात्।

मुख्यमन्त्रीलखनऊजनपदस्यविशिष्टध्यानार्थंनिर्दिष्टवान्यत्नोडल-अधिकारीग्राम्यविकासएवंपञ्चायतीराजविभागस्यअपरमुख्यसचिवेन, स्वास्थ्यविभागस्यअपरमुख्यसचिवेन  चिकित्साशिक्षाविभागस्य अपरमुख्यसचिवेन च सह विचार-विमर्शं च कृत्वा जनपदे सङ्क्रमणस्य नियन्त्रयणाय एकं प्रारूपं प्रस्तुयात् ।

मुख्यमन्त्रिणाभाषितंयत्प्रदेशस्य  16 जनपदेषु  सङ्क्रमणं प्रभाविरूपेण  नियन्त्रयितुं  शासनद्वारा अपर-मुख्यसचिव/प्रमुखसचिवस्तरीयाणां नोडलधिकारिणां नियुक्तिः कृता वर्तते।

तेन चिकित्साशिक्षामन्त्रिणं प्रति अपेक्षा कृता यत् लखनऊजनपदसहितं समस्तानां 16 जिल्लानां नोडलधिकारिभिः सह संवादं संस्थाप्य तेषाम्  आवश्यकं मार्गदर्शनं कुर्यात्। दिशा-निर्देशान् च तेभ्यः दद्यात्‌।

एम0एस0पी0 इत्यस्य अन्तर्गतं धानक्रयणकार्यवाहीं सुव्यवस्थिततया

सञ्चालनाय सर्वे प्रबन्धाः समयबद्धाः सुनिश्चिताश्च भवेयुः

 

मुख्यमन्त्रिणा उक्तं एम.एस.पी. इत्यस्य अन्तर्गतं धानक्रयणकार्यवाहीं सुव्यवस्थिततया सञ्चालनाय सर्वे  प्रबन्धाः समयबद्धाः सुनिश्चिताश्च भवेयुः ।

आवश्यकतानुसारं धानक्रयकेन्द्रेषु  सङ्ख्यावृद्धिनिमित्तं कार्यवाही भवेत् ।

एतत् सुनिश्चितं भवेत् यद् कृषकेभ्यः धानक्रयणसम्बन्धे  सर्वसौविध्यम्  उपलब्धं भवेत्।

अस्मिन्अवसरेचिकित्साशिक्षामन्त्रीश्रीमान्सुरेशखन्ना, मुख्यसचिवःश्रीमान्आर.के. तिवारी, अवस्थापनाएवम्औद्योगिकविकासायुक्तःश्रीमान्आलोकटण्डनः, कृष्युत्पादनायुक्तःश्रीमान्आलोकसिन्हा, वित्तविभागस्यअपरमुख्यसचिवःश्रीमान्  सञ्जीव मित्तलः, गृहम् एवं सूचना विभागस्य अपरमुख्यः सचिवः श्रीमान्  अवनीशकुमार अवस्थी, पुलिसमहानिदेशकः श्रीमान् हितेशः सी. अवस्थी, सचिवराजस्वविभागस्य अपरमुख्यः श्रीमती रेणुका कुमारः, स्वास्थ्यविभागस्य अपरमुख्यः सचिवः श्रीमान् अमितमोहन प्रसादः,चिकित्सा शिक्षा विभागस्य अपरमुख्यः सचिवः डा॰ रजनीश दुबे, अपरः मुख्यसचिवः (मुख्यमन्त्री) श्रीमान् एस.पी. गोयलः, प्रमुखसचिवः मुख्यमन्त्री श्रीमान् सञ्जय प्रसादः, सचिवः (मुख्यमन्त्री) श्रीमान् आलोक कुमारः, सूचनानिदेशकः श्रीमान् शिशिरः, अन्ये वरिष्ठाधिकारिणः  उपस्थिताः आसन्।

Leave a Reply

Your email address will not be published.

7 + 13 =

Related Articles

Back to top button